सामग्री पर जाएँ

सकलम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सकलम्, त्रि, (कलया सह वर्त्तमानम् ।) समु- दायः । तत्पर्य्यायः ! समम् २ सर्व्वम् ३ विश्वम् ४ अशेषम् ५ कृत्स्नम् ६ समस्तम् ७ निखिलम् ८ अखिलम् ९ निःशेषम् १० समग्रम् ११ पूर्णम् १२ अखण्डम् १३ अमूलकम् १४ । इत्यमरः ॥ अनन्तम् १५ । इति शब्दरत्नावली ॥ (यथा, भागवते । ४ । २८ । ४ । “द्वार्भिः प्रविश्य सुभृशं प्रार्दृयन् सकलां पुरीम् ॥” कला प्रकृतिस्तया सह वर्त्तते इति । सगुणम् । यथा महाभारते । १३ । १६ । ८ । “निष्कलं सकलं ब्रह्म निर्गुणं गुणगोचरम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सकलम्&oldid=173567" इत्यस्माद् प्रतिप्राप्तम्