सामग्री पर जाएँ

सकुल्यः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सकुल्यः, त्रि, (समाने कुले भवः । यत् ।) सगोत्रः । यथा, -- “जारो लङ्गः सगोत्रास्तु स्वजनज्ञातिबान्धवाः । सकुल्यबन्धुदायादस्वसमानोदका अपि ॥” इति जटाधरः ॥ * ॥ स्वावध्यूर्द्ध्वतनाष्टमावधिदशमपुरुषपर्य्यन्तपुरुष- त्रयम् । तेषां दशमपुरुषपर्य्यन्तसन्ततिः । स्वाव- ध्यधस्तनाष्टमावधिदशमपुरुषपर्य्यन्तसन्ततिश्च ॥ तेषामशौचं यथा, बृहस्पतिः । “दशाहेन सपिण्डास्तु शुध्यन्ति प्रेतसूतके । त्रिरात्रेण सकुल्यास्तु स्नात्वा शुध्यन्ति गोत्रजाः ॥” इति शुद्धितत्त्वम् ॥ * ॥ दायाधिकारिसकुल्यास्तु पञ्चमपुरुषावधयः । यथा । बौधायनः । प्रपितामहः पितामहः पिता स्वयं सोदर्य्यभ्रातरः सवर्णायाः पुत्त्रः पौत्त्रः प्रपौत्त्रो वा एतानविभक्तदायादान् सपिण्डान् आचक्षते । विभक्तदायादान् सकु- ल्यान् आचक्षते सत्सङ्गजेषु तद्गामी ह्यर्थो भव- तीति । इति दायतत्त्वं शुद्धितत्त्वञ्च ॥ * ॥ तस्य कन्यादानाधिकारित्वं यथा । विष्णुः । पिता पितामहो भ्राता सकुल्यो मातामही माता चेति कन्याप्रदः पूर्व्वनाशे प्रकृतिस्थः परः परः । नारदश्च । ‘पिता दद्यात् स्वयं कन्यां भ्राता वानुमतः पितुः मातामहो मातुलश्च सकुल्यो बान्धवस्तथा ॥ माता त्वभावे सर्व्वेषां प्रकृतौ यदि वर्त्तते । तस्यामप्रकृतिस्थायां कन्यां दद्युः स्वजातयः ॥’ इत्युद्वाहतत्त्वम् ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सकुल्यः [sakulyḥ], 1 One of the same family.

A distant relation; such as a descendant in the 4th, 5th, or 6th, or even in the 7th, 8th, or 9th degree; अत ऊर्ध्वं सकुल्यः स्यादाचार्यः शिष्य एव वा Ms.9.187.

A distant relation in general. -a. Akin, similar; अथ पथि पथि लाजैरात्मनो बाहुवल्लीमुकुलकुलसकुल्यैः पूजयन्त्यो जयेति N.16.126.

"https://sa.wiktionary.org/w/index.php?title=सकुल्यः&oldid=381796" इत्यस्माद् प्रतिप्राप्तम्