सङ्कट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्कटः, त्रि, (सम् + “संप्रोदश्च कटच् ।” ५ । २ । २९ । इति कटच् ।) संवाधः । इत्यमरः ॥ द्वे अल्पावकाशे वर्त्मादौ । सम्यक् कटति आवृ- णोति सङ्कटं अल् । सम्यगन्योन्यं वाधन्तऽत्र संवाधः घञ् । वाच्यलिङ्गता च । संवाधं बृहदपि तद्बभूव वर्त्म इति माघः । इति भरतः ॥ दुःखे, क्ली । यथा, -- “सर्व्वाबाधासु घोरासु वेदनाभ्यर्दितोऽपि वा । स्मरन्ममैतच्चरितं नरो मुच्येत सङ्कटात् ॥” सङ्कटं दुःखमुत्तरार्द्धमुत्तरान्वयि । इति देवी- माहात्म्यस्य टीकायां नागोजीभट्टः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्कट पुं।
सङ्कीर्णम्
समानार्थक:सङ्कट,सम्बाध
3।1।85।1।1
सङ्कटम्ना तु सम्बाधः कलिलं गहनं समे। सङ्कीर्णे सङ्कुलाकीर्णे मुण्डितं परिवापितम्.।
पदार्थ-विभागः : , द्रव्यम्
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्कट¦ त्रि॰ सम + कटच् सम् + कट--अच् वा।
१ अल्पावकाशेस्थाने अमरः।
२ संबाधे
३ दुःखे
“नरोमुच्येत सङ्क-टादिति” देवीमा॰।
४ देवीभेदे स्त्री ज्योतिषोक्ते दशा-भेदे च स्त्री टाप्। दशाशब्दे
३४
८४ पृ॰ दृश्यम्।