सामग्री पर जाएँ

सङ्कमुकः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कमुकः, त्रि, (सम्यक् कसति इतस्ततो गच्छ- तीति । सस + कस गतौ + “समि कसेरुकन् ।” उणा० २ । २९ । इति उकन् ।) अस्थिरः । इत्यमरः ॥ दुर्ब्बलः । इत्युणादिकोषः ॥ मन्दः । इति सिद्वान्तकौमुद्यामुणादिवृत्तिः ॥ संकीर्णः । अपवादशीलः । इति संक्षिप्तसारोणादिवृत्तिः ॥ (यथा, महाभारते । १२ । १९३ । १३ । “लोष्टमर्द्दी तृणच्छेदी नखखादी तु यो नरः । नित्योच्छिष्टः सङ्कसुको नेहायुर्विन्दते महत् ॥”

"https://sa.wiktionary.org/w/index.php?title=सङ्कमुकः&oldid=173657" इत्यस्माद् प्रतिप्राप्तम्