सामग्री पर जाएँ

सङ्करः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्करः, पुं, (सङ्कीर्य्यते इति । सं + कॄ विक्षेपे + अप् ।) सम्मार्ज्जन्या क्षिप्तधूल्यादिः । तत्प- र्य्यायः । अवकरः २ । इत्यमरः ॥ सङ्कारः ३ । इति शब्दरत्नावली ॥ अग्निचटत्कारः । इति । मेदिनीहारावल्यौ ॥ मिश्रितत्वम् । यथा, -- “भेदाख्यानाय न द्वन्द्वो नैकशेषो न सङ्करः ।” इत्यमरः ॥ परस्परात्यन्ताभावसमानाधिकरणयोरेकाधि- करण्यम् । यथा । मूर्त्तत्वं मनसि वर्त्तते भूतत्वं नास्ति आकाशे भूतत्वं वर्त्तते मूर्त्तत्वं नास्ति । पृथिव्यां भूतत्वं वत्तते मूर्त्तत्वञ्चास्तीति जाति- साङ्कर्य्यम् । तथा चोक्तम् । “व्यक्तेरभेदस्तुल्यत्वं सङ्करोऽथानवस्थितिः । रूपहानिरसम्बन्धो जातिवाधकसंग्रहः ॥” इति सिद्धान्तमुक्तावली ॥ * ॥ वर्णशङ्करजातिः । यथा, -- याज्ञवल्का उवाच । “वक्ष्ये सङ्करजात्यादि गृहस्थादिविधिं परम् । विप्रान्मूर्द्धावसिक्तो हि क्षत्रियायां विशः स्त्रियाम् ॥ जातोऽम्बष्ठस्तु शुद्रायां निषादः पार्षतोऽपि वा । माहिष्योग्रौ प्रजायेते विट्शुद्राङ्गनयोर्नृपात् ॥ वेश्यां शुद्राच्च राजन्यां माहिष्योग्रौ सुतौ स्मृतौ । शूद्रायां करणो वैश्यात् विद्वान् एष विधिः स्मृतः ॥ ब्राह्मण्यां क्षत्त्रियात् सूतो वैश्याद्वैदेहकस्तथा । शूद्राज्जातस्तु चाण्डालः सर्व्वधर्म्मबहितष्कृतः ॥ क्षत्त्रिया मागधं वैश्यात् शूद्रात् क्षत्तारमेव च । शूद्रादायोगवं वैश्या जनयामास वै सुतम् ॥ माहिष्येण करण्यान्तु रथकारः प्रजायते । असंस्तुताश्च विज्ञेयाः प्रातिलोमानुलोमजाः ॥ जात्युत्कर्षाद्द्विजो ज्ञेयः सप्तमे पञ्चमेऽपि वा । व्यत्यये कर्म्मणां साम्ये पूर्व्ववच्चोत्तरावरम् ॥” इति गारुडे ९६ अध्यायः ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्करः&oldid=173635" इत्यस्माद् प्रतिप्राप्तम्