सामग्री पर जाएँ

सङ्करीकरणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्करीकरणम्, क्ली, (असङ्करः सङ्करः क्रियतेऽने- नेति । सङ्कर + कृ + ल्युट् । अभूततद्भावे च्वि ।) नवविधपापान्तर्गतपापविशेषः । यथा, विष्णुः । अथ पुरुषस्य कामक्रोधलोभाख्यं रिपुत्रयं भवति । परिग्रहप्रसङ्गेन विशेषाद्गृहाश्रमिणः । तेनायमाक्रान्तोऽतिपातकमहापातकानुपात- कोपपातकेषु वर्त्तते । जातिभ्रंशकरेषु सङ्कर- करणेष्वप्रात्रीकरणषु मलावहेषु प्रकीर्णकेषु । तद्यथा, -- “खराश्वोष्ट्रमृगेभानामजाविकवधस्तथा । सङ्करीकरणं ज्ञयं मीनाहिमहिषस्य च ॥” तस्य प्रायश्चित्तं यथा, -- “सङ्करापात्रकृत्यासु मास शोधनमैन्दवम् । मलिनीकरणीयेषु तप्तः स्याद्यावकस्त्र्यहः ॥” तथा विष्णुः । “ग्राम्यारण्याणां पशूनां हिंसा सङ्कीर्णोकर- णम् । सङ्करीकरणं कृत्वा मासमश्नाति यावकम् । कृच्छ्रातिकृच्छमथवा प्रायश्चित्तन्तु कारयेत् ॥” इति प्रायश्चित्तविवेकः ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्करीकरणम्&oldid=173638" इत्यस्माद् प्रतिप्राप्तम्