सामग्री पर जाएँ

सङ्कर्षणम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कर्षणम्, क्ली, आकर्षणम् । सम्यक्प्रकारेण कर्ष- णम् । संपूर्व्वकृषधातोरनट्प्रत्ययेन निष्पन्नम् ॥ (यथा, भागवते । १० । २ । १३ । “गर्भसंकर्षणात् तं वै प्राहुः सङ्कषणं भुवि ॥” एकीकरणम् । इति स्वामी ॥ यथा, भागवते । ५ । २५ । १ । “तस्य मूलदेशे त्रिंशयोजनसहस्रान्तरे आस्ते या वै कला भगवतस्तामसी समाख्याता अनन्त इति सात्वतीया द्रष्टृदृश्ययोः सङ्कर्षणं अह- मित्यभिमानलक्षणं यं सङ्कर्षण इत्याचक्षते ॥”)

"https://sa.wiktionary.org/w/index.php?title=सङ्कर्षणम्&oldid=173640" इत्यस्माद् प्रतिप्राप्तम्