सामग्री पर जाएँ

सङ्कल्प

विकिशब्दकोशः तः

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कल्पः, पुं, (सं + कृप + भावे घञ् । गुणे कृते रस्य लः ।) कर्म्मणो मानसम् । इत्यमरः ॥ “सङ्कल्प उक्तो हारीतेन । यथा । मनसा सङ्कल्प- यति वाचा अभिलपति कर्म्मणा चोपपादयति इति । भविष्यपुराणवचनेन च । ‘सङ्कल्पेन विना राजन् यत्किञ्चित् कुरुते नरः । फलञ्चाल्पाल्पकं तस्य धर्म्मस्याद्धक्षयो भवेत् ॥’ इति । ब्रह्मपुराणेनापि । ‘आशास्य च शुभं कार्य्यमुद्दिश्य च मनोगतम्’ । इत्यगस्त्यपूजने उक्तम् । मनोगतं शुभं फलं आशास्य मनसा सङ्कल्प्य उद्दिश्य वाचा अभि- लप्य कार्य्यं कर्म्मणा उपपाद्यम् । भविष्ये । ‘शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तया । सङ्कल्पो नैव कर्त्तव्यो मृण्मयेन कदाचन ॥ गृहीत्वौडुम्बरं पात्रं वारिपूर्णं गुणान्वितम् । दर्भत्रय साग्रमूलं फलपुष्पतिलान्वितम् ॥ जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः । साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम् ॥’ अत्र केवलहस्तनिषेधस्तु पात्रान्तरसद्भाव- विषयः । शङ्खादिसाहचर्य्यात् एकहस्तपरो वा । “गृहीत्वौडुम्बरं पात्रं वारिपूर्णमुदङ्मुखः । उपवासन्तु गृह्णीयाद् यद्वा वार्य्येव धारयेत् ॥” इति वराहपुराणदर्शनात् ।” इति तिथ्यादि- तत्त्वम् ॥ * ॥ सङ्कल्पश्च भावे मयैतर्त् कर्त्तव्य- मेव निषधे तु मयैतन्न कर्त्तव्यमिति ज्ञानविशेषः । व्रतादीनां सङ्कल्पसम्भवत्वं यथा, -- “सङ्कल्पमूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः । व्रता नियमधर्म्माश्च सर्वे सङ्कल्पजाः स्मृताः ॥” इत्येकादशोतत्त्वम् ॥ तद्वाक्यरचना यथा, -- “श्रीपद पूर्वमुच्चार्य्य ततो विष्णुपदं वदेत् । ओ~ तत् सदित्युच्चार्य्य नाम गोत्रं ततो वदेत् ॥ तत इष्टप्रोतिकामो मूलबीजं समुन्नयेत् । ततोऽस्याञ्च वरारोहे गङ्गास्नानमहं ततः ॥ करिष्ये इति सङ्कल्प्य शिरःस्नानं समाचरेत् । त्रिः स्नात्वा चञ्चलापाङ्गि ! इति -- वाक्यं सुरा- च्चिते ! ॥ अद्येत्याद्यस्य चार्वङ्गि ! रहस्यं प्रवदामि ते ॥” इति कामधेनुतन्त्रे ३२ पटलः ॥ * ॥ अपि च । अथ सङ्कल्पविधानम् । “असङ्कल्पितमर्त्यो यन्न्यूनाधिकमथापि वा । न सम्यक्फलभाग्भूयात्तस्मान्नियममाचरेत् ॥ ताम्रपात्रं सदूवञ्च सतिलं जलपूरितम् । सकुशञ्च फलैर्द्देवि ! गृहीत्वाचम्य कल्पतः ॥ अभ्यर्च्च्य च शिरःपद्मे श्रीगुरुं करुणामयम् । यक्षेशवदनो वापि देवेन्द्रवदनोऽपि वा ॥ मासं पक्षं तिथिञ्चैव देवपर्व्वादिकन्तथा । आद्यन्तकालञ्च तथा गोत्रं नाम च कामिनाम् क्रियाह्वयं करिष्येऽन्तमेवं समुतसृजेत् पयः ॥” इति योगिनीतन्त्रे प्रथमखण्डीयः २ पटलः ॥ * ॥ अन्यच्च । शिवपूजायां मानससङ्कल्पो यथा, -- “ततस्तु परमेशानि ! कृत्वा सङ्कल्पमानसम् । यथापूर्व्वं महादेवि ! ब्रह्माण्डस्थितिमानसः ॥ तथा भवतु सर्व्वाङ्गं इति सङ्कल्प्य मानसः । न गोत्रं मम देवेशि ! न नाम परमेश्वरि ॥ न माता परमेशानि न पिता मम कामिनि । तस्मिन् काले महेशानि मम सर्वं न हि प्रिये ॥ न वारं न तिथिं देवि तस्मिन् काले शुचिस्मिते न काष्ठां न कलां देवि तस्मिन् काले वरानने न दिवा परमेशानि न रात्रिं परमेश्वरि । अतएव महेशानि सङ्कल्पं मानसं स्मृतम् ॥ मानसं यदि आयाति तदा स्थानेन किं प्रिये । सङ्कल्पं मानसं देवि चतुव्वर्गप्रदायकम् ॥ स्थूलं हि परमेशानि सङ्कल्पं व्यर्थमुच्यते ॥ सङ्कल्पेन विना देवि यत्किञ्चित् कृतवान्सुधीः तदुक्तं परमेशानि तत् सर्व्वं मानसं परम् ॥ यदुक्तं परमेशानि मुनिना क्षुद्रबुद्धिना । तत् सर्व्वं परमेशानि व्यर्थं भवति पार्व्वति । इति सङ्कल्पमाचर्य्य जीवन्यासं समाचरेत् ॥” इति लिङ्गार्च्चनतन्त्रे ५ पटलः ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कल्प पुं।

मनोव्यापारकर्मः

समानार्थक:सङ्कल्प

1।5।2।1।2

धीर्धारणावती मेधा सङ्कल्पः कर्म मानसम्. अवधानं समाधानं प्रणिधानमं तथैव च। चित्ताभोगा मनस्कारश्चर्चा संख्या विचारणा। विमर्शो भावना चैव वासना च निगद्यते॥

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कल्प¦ पु॰ सम् + कृप--घञ् गुणे रस्य लः।

१ अभीष्टसिद्धये(इदमित्थमेव कार्य्यम) इत्येवंरूपे मतमोव्यापारभेदे अ-[Page5194-b+ 38] मरः।

२ कर्मसाधनाय अभिलापवाक्ये
“सङ्कल्पेन विना-राजन्! यत् किञ्चित् कुञ्चित् कुरुते नरः। फलस्याल्पाल्पकं तस्यधर्मस्यार्द्धक्षयो भवेत्” ब्रह्मपु॰। धर्मस्य अर्द्धक्षयोक्तेःफलस्याल्पाल्पकत्वमप्यर्द्धपरत्वं युक्तं धर्माधीनत्वात्फलस्य।
“आशास्य च शुभं कार्यमुद्दिश्य च मनोगतम्” अगस्त्यपूजने उक्तम्
“मनोगतं शुभफलमाशास्य मनसासङ्कल्प्य, उद्दिश्य वाचा अभिलप्य, कार्यं कर्मणा उप-पाद्यम्” ति॰ त॰ रघु॰।
“मनसा सङ्कल्पयति वाचा अभि-लपति कर्मणा चोपपादयति” हारीतः। तत्प्रकारो यथा
“शुक्तिशङ्खाश्महस्तैश्च कांस्यरूप्यादिभिस्तथा। सङ्कल्पोनैव कर्त्तव्यो मृण्मयेन कदाचन। गृहीत्वौदुम्बरं पात्रंवारिपूर्णं गुणान्वितम्। दर्भत्रयं साग्रमूलं फलपुष्प-तिलान्वितम्। जलाशयारामकूपे सङ्कल्पे पूर्वदिङ्मुखः। साधारणे चोत्तरास्य ऐशान्यां निक्षिपेज्जलम्” भविष्यपु॰। अत्र केवलहस्तनिषेधस्तु पात्रान्तरसद्भावविषयः एक-हस्तपरो वा एका॰ त॰ रघु॰। मानससङ्कल्पश्च द्विविधः भा-वाभावविषयभेदात् तत्राद्यः मयैतत्कर्त्तव्यमित्येवरूपःद्वितीयः मयैतन्न कर्त्तव्यमित्येवं रूपः। तत्र पूजादिसङ्क-ल्पोभावविषय उपवासादिसङ्कल्पोऽभावविषय इति भेदः। ध्यम्।
“सङ्कल्पभूलः कामो वै यज्ञाः सङ्कल्पसम्भवाः। व्रतानियमधर्माश्च सर्वे सङ्कल्पजाः स्मृताः” एका॰ त॰।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कल्प¦ m. (-ल्पः)
1. Volition, will, resolve, mental determination.
2. A solemn vow or declaration of purpose.
3. Expectation of desired consequences from any voluntary act. E. सम् before कृप् to be able, aff. घञ्, and the र changed to ल |

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

SAṄKALPA : One of the sons born to Dharmadeva by his wife Saṅkalpā. (Bhāgavata, Skandha 6).


_______________________________
*2nd word in left half of page 685 (+offset) in original book.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कल्प पु.
(सम् + क्लृप् + घञ्) निश्चय, प्रण; ‘यथार्थ’ सम्भृतसंभारस्य--------अप्यकृतसङ्कल्पस्य----- यज्ञसंकल्पात्पूर्वक्षणे शुद्धिर्भवति, स्मृ.च.वि. 71.4।

"https://sa.wiktionary.org/w/index.php?title=सङ्कल्प&oldid=508827" इत्यस्माद् प्रतिप्राप्तम्