सङ्कीर्त्तन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्कीर्त्तनम्, क्ली, स्त्री, (सं + कीर्त्त + ल्युट् ।) सम्यक्- प्रकारेण देवतानामोच्चारणम् । गुणादि- कथनम् । यथा, -- “कृष्णवर्णं त्विषा कृष्णं साङ्गोपाङ्गास्त्रपार्षदम् यज्ञैः सङ्कीर्त्तनप्रायैर्यजन्ति हि सुमेधसः ॥” इति श्रीमद्भागवते ११ स्कन्धे ५ अध्यायः ॥ “रूक्षतां व्यावर्त्तयति । त्विषा कान्त्या कृष्णं इन्द्रनीलमणिवदुज्ज्वलम् । यद्वा त्विषा कृष्णं कृष्णावतारं अनेन कलौ कृष्णावतारस्य प्राधान्यं दर्शयति । अङ्गानि हृदयादीनि । उपाङ्गानि कौस्तुभादीनि । अस्त्राणि सुदर्शनादीनि । पार्षदाः सुनन्दादयः । तत्सहितं यज्ञैरर्च्चनैः । सङ्कीर्त्तनं नामोच्चारणं स्तुतिश्च तत्प्रधानैः । सुमेधसो विवेकिनः ।” इति तट्टीकायां श्रीधर- स्वामी ॥ * ॥ तन्माहात्म्य यथा, -- “सङ्कीर्त्तनध्वनिं श्रुत्वा ये चनृत्यन्ति मानवाः । तेषां पादरजःस्पर्शात् सद्यः पूता वसुन्धरा ॥” इति बृहन्नारदीयपुराणम् ॥ अपि च । “नामसङ्कीर्त्तनं यत्र कृष्णस्य परमात्मनः । स्थानं तत्तु पवित्रं स्यान्मृतानां तत्तु मुक्तिदम् ॥” इति पद्मपुराणम् ॥ * ॥ प्रथमसङ्कीर्त्तनारम्भप्रमाणं यथा । पुष्करतीर्थे नारदं प्रति ब्रह्मवाक्यम् । “श्रीकृष्णरससङ्गीतं वीणाध्वनिसमन्वितम् । कुरु वत्साधुनात्रैव शृण्वन्तु मुनयः सुराः ॥ गोपीनां वस्त्रहरणं परं रासमहोत्सवम् । ताभिः सार्द्धं जलक्रीडां हरेरुत्कीर्त्तनं कुरु ॥ कृष्णसङ्कीर्त्तनं तूर्णं पुनाति श्रुतिमात्रतः । श्रोतारञ्च प्रवक्तारं पुरुषैः सप्तभिः सह ॥ यत्रैव प्रभवेद्वत्स ! तम्नामगुणकीर्त्तणम् । तत्र सर्व्वाणि तीर्थानि पुण्यानि मङ्गलानि च ॥ तत्कीर्त्तनध्वनिं श्रुत्वा सर्व्वाणि पातकानि च ॥ दूरादेव पलायन्ते वैतनेयमिवोरगाः ॥ तद्दिनं सफलं धन्यं यशस्यं सर्व्वमङ्गलम् । श्रीकृष्णकीर्त्तनं यत्र तत्र वै नायुषोऽव्ययः ॥ कृष्णसंकीर्त्तनस्थाने ये च नृत्यन्ति वैष्णवाः । तेषां पादरजःस्पर्शात् सद्यः पूता वसुन्धरा ॥ उत्कीर्त्तनं भवेद्यत्र कृष्णस्य परमात्मनः । स्थानं तच्च भवेत्तीर्थं मृतानां तत्र मुक्तिदम् ॥ नात्र पापानि तिष्ठन्ति पुण्यानि सुस्थिराणि च । तपस्विनाञ्च व्रतिनां व्रतानां तपसां स्थलम् ॥ वर्त्तन्ते पापिनां देहे पापानि त्रिविधानि च । महापापोपपापातिपापान्येव स्मृतानि च ॥ कृष्णसंकीर्त्तनाद्ध्यानात्तन्मन्त्रग्रहणादहो । मुच्यन्ते पातकैस्तैश्च पापिनस्त्रिविधा जनाः ॥” इति नारदपञ्चरात्रे ज्ञानामृतसारे प्रथमैक- रात्रे महोत्सवारम्भो नाम १० अध्यायः ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्कीर्त्तन¦ न॰ सम् + कीर्त्त--ल्युट्।
१ स्तुतौ
२ देवादेर्नामो-च्चारणे
३ गानेन देवगुणाद्युत्कीर्त्तने च
“श्रीकृष्णरस-सङ्गीतं वीणाध्वनिसमन्वितम्। कुरु वत्साघुनात्रैवशृण्वन्तु मुनयः सुराः। गोपीनां वस्त्रहरणं परं रास-महोत्सवम्। ताभिः सार्द्धं जलक्रीडां हरेरुत्कीर्त्तनंकुरु। कृष्णसङ्कीर्त्तनस्थाने ये च नृत्यन्ति वैष्णवाः। तेषांपादरजः स्पर्शात् सद्यः पूता वसुन्धरा” नारदपञ्चरात्रम्।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्कीर्त्तन¦ nf. (-नं-ना)
1. Celebrating, praising, honour, glorification.
2. Singing the praise of a deity. E. सम् before कॄत् to praise, aff. युच् |
