सङ्केतः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्केतः, पुं, सङ्कित्यते उच्यतेऽत्र । (सं + कित + धञ् ।) स्वाभिप्रायष्यञ्जकचेष्टाविशेषः । तत्प- र्य्यायः । प्रज्ञप्तिः २ परिभाषा ३ शैली ४ समयः ५ आकारः ६ । इति त्रिकाण्डशेषः ॥ उदा- हरणं यथा, -- “सङ्केतप्रियशङ्कया निजपतिं प्रावोचदध्वश्रमम् ।” इति रससंग्रहः ॥ (यथा च साहित्यदर्पणे । “सङ्केतकालमनसं विटं ज्ञात्वा विदग्धया । हसन्नेत्रार्पिताकुतं लीलापद्मं निमीलितम् ॥”) न्यायमते यथा । सङ्केतो लक्षणा चार्थे पद- वृत्तिः । वृत्त्या पदप्रतिपाद्योऽर्थ एव पदार्थ इत्यभिधीयते । इदं पदमिमर्थं बोधयत्विति अस्माच्छब्दादयमर्थो बोद्धव्य इति वेच्छा सङ्केतरूपा वृत्तिः । तत्राधुनिकसङ्केतः परि- भाषा । तया अर्थबोधकं पदं पारिभाषिकम् । यथा शास्त्रकारादिसङ्केतितनदीवृद्ध्यादिपदम् । ईश्वरसङ्केतः शक्तिः । तया अर्थबोधकं पदं वाचकम् । यथा गोत्वादिविशिष्टबोधकगवादि- पदम् । तद्बोध्योऽर्थो गवादिर्वाच्यः स एव मुख्यार्थ इत्युच्यते । इति शक्तिवादे गादाधरी टीका ॥
