सङ्केतनिकेतन
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्केतनिकेतनम्, क्ली, (सङ्केतस्य निकेतनम् ।) प्रिय- मेलनार्थावधारितगृहम् । यथा, -- “सङ्केतनिकेतने प्रियमनवलोक्य समाकुलहृदया विप्रलब्धा । ‘सङ्केतकेलिगृहमेत्य निरीक्ष्य शून्य- मेणीदृशो निभृतनिःश्वसिताधरायाः । अद्धक्षिरं वचनमर्द्धविकाशि नेत्रं ताम्बूलमर्द्धकवलीकृतमेव तस्थौ ॥’ सङ्केतस्थलं प्रति भर्त्तुरनागमनकाणं चिन्तयति या सोत्कण्ठिता ॥” इति रसमञ्जरी ॥
