सामग्री पर जाएँ

सङ्कोचः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्कोचः, पुं, (संकुचतीति । सं + कुच् + अच् ।) मत्स्यभेदः । (सं + कुच्भावे घञ् ।) बन्धः । इति मेदिनी ॥ (यथा, कथासरित्सागरे । ९० । ६५ । “निनाय च निशामिन्दुविषमामब्जिनीव ताम् बद्धमोहालिपटले हृदि सङ्कोचमेत्य सा ॥”) बहुविषयक-वाक्यार्थादेरल्पविषय-स्थापनम् । यथा, सामान्यशब्दार्थस्य विशेषनिष्ठत्वं सङ्कोचः इति श्राद्धविवेकः ॥ रोधः । जडीभाव इत्यर्थः । यथा, -- “यस्मिन् प्रमुदिते राज्ञि तमः सङ्कोचति क्षितौ ॥” इति कविकल्पद्रुमटीकायां दुर्गादासः ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्कोचः&oldid=173682" इत्यस्माद् प्रतिप्राप्तम्