सामग्री पर जाएँ

सङ्क्रन्दनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्क्रन्दनः, पुं, (सङ्क्रन्दयति असुरानिति । सं + क्रन्द + णिच् + ल्युः ।) इन्द्रः । इत्यमरः ॥ (भौत्यस्य मनोः पुत्त्रविशेषः । यथा, मार्क- ण्डेये । १०० । ३२ । “स्त्रीमाणी च प्रतीरश्च विष्णुः सङ्क्रदनस्तथा । तेजस्वी सुबलश्चैव भौत्यस्यैते मनोः सुताः ॥” सं + क्रन्द + भावे ल्युट् ।) रोदने, क्ली । (यथा, महाभारते । ११ । २३ । ४ । “दिष्ट्या नैनं महाराज दारुणं भरतक्षयम् । कुरु संक्रन्दनं घोरं युगान्तमनुपश्यसि ॥” सङ्क्रन्दयति शत्रूनिति । शत्रुतापके, त्रि । यथा, महाभारते । ४ । ५ । २६ । “तस्य मौर्व्वीमपाकर्षत् शूरः सङ्क्रन्दनो युधि । कुले नास्ति समो रूपे यस्येति नकुलः स्मृतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सङ्क्रन्दनः&oldid=173687" इत्यस्माद् प्रतिप्राप्तम्