सामग्री पर जाएँ

सङ्क्रमः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्क्रमः, पुं, क्ली, दुर्गसञ्चरः । सा~को इति भाषा । इत्यमरः ॥ संक्रामति अनेन संक्रम्यते असौ वा संक्रमः । घञ् । दुर्गं सेत्वादि सञ्च- रत्यनेन दुर्गसञ्चरः करणे अल् । सञ्चरो निर्ग- मोऽम्बुपथः । इति रत्नकोषः । इति भरतः ॥ (यथा, मनुः । ९ । २८५ । “संक्रमध्वजयष्टीनां प्रतिमानाञ्च भेदकः । प्रतिकुर्य्याच्च तत्सर्व्वं पञ्च दद्यात् शतानि च ॥”)

सङ्क्रमः, पुं, (सं + क्रम + घञ् ।) क्रमणम् । सम्यग्राशिसञ्चारवस्तु । इति धरणिः ॥ (यथा, भागवते । ४ । १२ । ४८ । “दिनक्षयेव्यतीपाते सङ्क्रमेऽर्कदिनेऽपि वा ॥”) रविसंक्रमकालो यथा, -- “त्रुटेः सहस्रभागो यः स कालो रविसङ्- क्रमः ॥” इति तिथ्यादितत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्क्रमः&oldid=173689" इत्यस्माद् प्रतिप्राप्तम्