सङ्क्रमणम्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्क्रमणम्, क्ली, (सं + क्रम + ल्युट् ।) गमनम् । सूर्य्यस्य राश्यन्तरप्रवेशः । यथा । कालकौमुद्यां जावालिः । “पूर्णे चेदर्द्धरात्रे तु रविसङ्क्रमणं भवेत् । प्राहुर्दिनद्वयं पुण्यं त्यक्त्वा मकरकर्क्कटौ ॥” देवीपुराणे । “रविसङ्क्रमणे पुण्ये न स्नानायात् यस्तुमानवः । सप्तजन्म भवेत् कुष्ठी दरिद्रश्चोपजायते ॥” इति तिथ्यादितत्त्वम् ॥ (प्रापणम् । यथा, हरिवंशे । ३२ । १६ । “अत्रैवोदाहरन्तीमं भरद्धाजस्य धीमतः । धर्म्मसङ्क्रमणञ्चापि मरुद्भिर्भरताय वै ॥”
