सामग्री पर जाएँ

सङ्क्रान्तः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्क्रान्तः, त्रि, (संक्रान्तिरस्यास्तीति । अच् ।) संक्रान्तिविशिष्टः । यथा, -- “असङ्क्रान्तमासोऽधिमासः स्फुटः स्यात् द्विसंक्रान्तमासः क्षयाख्यः कदाचित् ।” इति मलमासतत्त्वम् ॥ (सं + क्रम् + क्तः ।) प्राप्तः । गतः । क्रमापत- धनादि । यथा । स्त्रीसङ्क्रान्तधनस्य स्त्रीधनत्वा- भावात् अधिकारविशेषस्यात्र वचनादप्राप्त्या- काङ्क्षया कल्पने सादृश्यात् स्त्रीसङ्क्रान्तधन- मात्रस्य पूर्व्वस्वामिदायादरूपोऽधिकारी कल्प- नीय एतदर्थं पत्नीपदस्य स्त्रीलक्षकत्वमिति भावः । इति दायभागटीकायां श्रीकृष्णतर्का- लङ्कारः ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्क्रान्तः&oldid=173693" इत्यस्माद् प्रतिप्राप्तम्