सङ्क्रान्तिचक्रम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्क्रान्तिचक्रम्, क्ली, (संक्रान्त्याश्चक्रम् ।) नराणां शुमाशुभ-ज्ञानार्थनक्षत्राङ्कितनराकारचक्रम् । यथा, -- “मूर्ध्नि सप्त मुखे त्रीणि हृदये पञ्च विन्यसेत् । त्रितयं हस्तपादेषु महाविषुवभक्रमात् ॥ मस्तके भूपतेः सौख्यं वदने पटुता स्वभे । हृदये च धनाध्यक्षोऽर्थप्राप्तिर्दक्षिणे करे ॥ वामकरे महद्दुखं सुखं पादे च दक्षिणे । भ्रमणं वामपादे च कथितं विषुवत्फलम् ॥” इति महाविषुवचक्रम् ॥ * ॥ “षड्मूर्ध्नि वदने पञ्च चत्वारि हृदये तथा । त्रितयं करपादेषु पयोविषुवभक्रमात् ॥ मानं मूर्द्ध्नि मुखे चैवं हृदये सुखसम्भवः । दोः पदोर्दक्षयोर्भोगस्त्रासश्च वामयोः स्वभे ॥” इति जलविषुवचक्रफलम् ॥ * ॥ “शीर्षे पञ्च मुखे त्रीणि हस्थयोश्च त्रयं त्रयम् । हृदि पञ्च शशी नाभौ गुदे च पादयो रसाः । उत्तरायणभाज्ज्ञेयं स्वनक्षत्रस्थितेः फलम् ॥ शीर्षेऽर्थलाभो वदने सुखानि दक्षे करेऽङ्घ्रौ हृदये च सौख्यम् । नाभौ शुभं वामकरेऽर्थनाशो गुह्ये भयं वामपदे प्रवासः ॥” इत्युत्तरायणचक्रफलम् ॥ * ॥ “शीर्षे त्रीणि मुखे त्रीणि हृदये पञ्च हस्तयोः । अष्टौ पादद्वयेऽप्यष्टौ दक्षिणायनभक्रमात् ॥ शीर्षे मानं मुखे विद्या हृदये वित्तसञ्चयः । प्रवासः स्यात् करे वामे भिक्षालाभश्च दक्षिणे । निष्फलं वामपादे च किञ्चिल्लाभश्च दक्षिणे ॥” इति दक्षिणायनचक्रफलम् ॥ * ॥ “ऋक्षे संक्रसणं यत्र विष्णुपद्यां मुखे च तत् । चत्वारि दक्षिणे बाहौ त्रीणि त्रीणि पदद्बये ॥ चत्वारि वामवाहौ च हृदये पञ्च निर्द्दिशेत् । अक्ष्णोर्द्वयं द्बयं योज्यं मूर्द्ध्नि द्वौ चैककं गुदे ॥ रोगो भोगस्तथा यानं बन्धनं लाभ एव च । ऐश्वर्य्यं राजपूजा च अपमृत्युरिति क्रमात् ॥” इति विष्णुपदीचक्रफलम् ॥ * ॥ “मुखे चैकं करे वेदाः पादयुग्मे द्बयं द्बयम् । क्रोडे वाणस्तथा वेदाः करे सव्येतरेऽपि च ॥ द्वयं द्वयं तथा नेत्रे मस्तके त्रितयं तथा । द्वयञ्चैव तथा गुह्ये षडशीत्यां स्वभे स्थिते ॥ मुखे दुःखं करे लाभः पादयोर्भ्रमणं हृदि । कान्ता स्याद्बन्धनं वामे हस्ते स्यात् स्वीयभे नृणाम् ॥ सम्मानं नेत्रयोश्चैव अपमानञ्च मस्तके । गुह्ये चैव भवेन्मृत्युः षडशीतिफलश्रुतिः ॥” इति षडशीतिचक्रफलम् ॥ * ॥ इति ज्योतिस्तत्त्वम् ॥
