सामग्री पर जाएँ

सङ्गः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्गः, पुं, (सञ्जसङ्गे + घञ् ।) मेलनम् । तत्प- र्य्यायः । मेलकः २ सङ्गमः ३ । इत्यमरः ॥ (यथा, देवीभागवते । १ । २० । ६७ । “अम्बिका च यदा स्नाता नारी ऋतुमती तदा सङ्गं प्राप्य मुनेः पुत्त्रमसूतान्धं महाबलम् ॥”) रागः । यथा । “रागसङ्गौ तु गृध्नुता ।” इति त्रिकाण्डशेषः ॥ (यथा, कुमारे । १ । २७ । “अनन्तपुष्पस्य मधोर्हि चूते द्विरेफमाला सविशेषसङ्गा ॥” * ॥) सङ्गदोषो यथा, -- “स मे समाधिर्ज्जलवासमित्र- मत्स्यस्य सङ्गात् सहसैव नष्टः । परिग्रहः सङ्गकृतो ममायं परिग्रहोत्थाश्च महाविवित्साः ॥” इति विष्णुपुराणे ४ अंशे २ अध्यायः ॥ अन्यच्च । “अहोऽस्य दारसंयोगः कथं तमूर्द्धरेतसः । दृष्ट्वा तयोश्च शृङ्गारं मुनिः कामी बभूव ह । जितेन्द्रियेऽसतां सङ्गात् दोषः सांसर्गिको भवेत् ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे २३ अध्यायः ॥ अपि च । “असतां सङ्गदोषेण को न याति पराभवम् । त्रिदशैवन्दितो वह्निर्भस्मना सहितो यथा ॥” इति चाणक्यम् ॥ किञ्च । “यत्र यत्र स्थितो जीवस्तमोयोगेन लज्जते । उपहासाय किं न स्यादसत्सङ्गो मनीषिणाम् ॥” इति ज्योतिस्तत्त्वम् ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्गः&oldid=173714" इत्यस्माद् प्रतिप्राप्तम्