सामग्री पर जाएँ

सङ्गतम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्गतम्, क्ली, (सं + गम् + क्तः ।) सौहार्द्दम् । इति हेमचन्द्रः ॥ यथा, कुमारे । ५ । ३९ । “यतः सतां सन्नतगात्रि ! सङ्गतं मनीषिभिः साप्तपदीनमुच्यते ॥”) युक्तियुक्तवाक्यम् । इति भरतः ॥ तत्पर्य्यायः । हृदयङ्गमम् २ ॥ इत्यमरः । १ । ६ । १८ ॥ (मौर्य्य- वंशीयनृपतिविशेषे, पुं । यथा, भागवते । १२ । १ । १३ ॥ “सुयशा भविता तस्य सङ्गतः सुयशः सुतः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सङ्गतम्&oldid=173717" इत्यस्माद् प्रतिप्राप्तम्