सङ्गमः
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्गमः, पुं, क्ली, (सं + गम + “ग्रहवृदृनिश्चि- गमश्च ।” ३ । ३ । ५८ । इति अप् ।) सङ्गः । इत्यमरः ॥ (यथा, साहित्यदर्पणे । “सङ्गमविरहविकल्पे वरमिह विरहो न सङ्गमस्तस्याः । सङ्गमे सैव तथैका त्रिभुवनमपि तन्मयं विरहे ॥”) नद्यादिमेलकः । इति पुंनपुंसकलिङ्गसंग्रह- टीकायां भरतः ॥ स्त्रीपुंसोर्म्मिथुनीभावः । स त्रिविधः । प्रथमः १ । मध्यमः २ । उत्तमः ३ । यथा, -- “त्रिविधं तत्समाख्यातं प्रथमं मध्यमोत्तमम् । अदेशकालभाषाभिर्निर्ज्जने च परस्त्रियाः । कटाक्षावेक्षणं हास्यं प्रथमं साहसं स्मृतम् ॥ १ ॥ प्रेरणं गन्धमाल्यानां धूपभूषणवाससाम् । प्रलोभनञ्चान्नपानैर्म्मध्यमं साहसं स्मृतम् ॥ २ ॥ सहासनं विविक्तेषु परस्परसमाश्रयः । केशाकेशिग्रहश्चैव सम्यक्संग्रहणं स्मृतम् ॥” ३ ॥ इति मिताक्षराधृतव्यासवचनम् ॥
