सामग्री पर जाएँ

सङ्गव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्गवः, पुं, (सङ्गताः गावो दोहनार्थं यत्र । निपातनात् साधुः ।) प्रातःकालात् परं मुहूर्त्त- त्रयम् । यथा, -- “प्रातःकालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु । मध्याह्नस्त्रिमुहूर्त्तः स्यादपराह्लस्ततः परम् । सायाह्नस्त्रिमुहूर्त्तः स्याच्छ्राद्धं तत्र न कारयेत् ॥” इति तिथ्यादितत्त्वम् ॥ (यथा, ऋग्वेदे । ६ । ७६ । ३ । “उतायातं सङ्गवे प्रातरह्नो मध्यन्दिन उदिता सूर्य्यस्य ॥” “अह्नोद्वेधा त्रेधा पञ्चदशधेति समाना विभागाः सन्ति इह पञ्चधा विभाग आत्तः उतापिचायातं आगच्छतं कदा सङ्गवे सङ्गवकाले । सङ्गच्छन्ते गावो दोहनभूमिं यस्मिन् काले स सङ्गवः । रात्र्यपरकाले हि गावो वने हिमतृणानि भक्षयित्वा पुनर्दोहाय सङ्गवे प्रतिनिवर्त्तन्ते ॥” इति तद्भाष्ये सायणः ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्गव¦ पु॰ सङ्गता गावो दाहनायात्र काले नि॰।
“प्रातः-कालो मुहूर्त्तांस्त्रीन् सङ्गवस्तावदेव तु” इति दक्षीक्तेप्रातःकालानन्तरं मुहूर्त्तत्रयात्मके कालभेदे।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्गव¦ m. (-वः) A name of the three MUHU4RTAS after early dawn, (form- ing the second watch of the day.)

"https://sa.wiktionary.org/w/index.php?title=सङ्गव&oldid=382939" इत्यस्माद् प्रतिप्राप्तम्