सङ्ग्रहणी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्ग्रहणी, स्त्री, (सञ्चिता ग्रहणी ।) ग्रहणी- रोगः । तस्य निदानादि ग्रहणीशब्दे द्रष्टव्यम् । अथ सामान्यग्रहणीरोगस्य चिकित्सामाह । “ग्रहणीमाश्रितं रोगमजीणवदुपाचरेत् । लङ्घनैर्दीपनीयैश्च मन्दातीसारभेषजैः ॥ दोषं सामं निरामञ्च विद्यादत्रातिसारवत् । अतिसारोक्तविधिना तस्यामञ्च विपाचयेत् ॥ पेयादि पटु लघ्वन्नं पञ्चकोलादिभिर्युतम् । दीपनानि च तक्रञ्च ग्रहण्यां योजयोद्भषक् ॥ कपित्थविल्वचाङ्गेरीतक्रदाडिमसाधिता । यवागूः पाचयत्यामं सकृत् संवर्त्तयत्यपि ॥” संवत्तयति घनीकरीति ॥ * ॥ औषधान्याह । “जातीफललवर्ङ्गलापत्रत्वङ् नागकेशरैः । कर्पूरं चन्दनन्तिल्वत्वक्क्षीरतगरामलैः ॥ स्त्रीणान्तु बन्ध्यामयनाशनः स्यात् कल्याणको नाम गुडः प्रसिद्धः ॥ तैले मनाक् त्रिवृत् भृष्टा त्रिसुगन्धिपलं पलम् । सिद्धे निधेयमत्रैव गुडे कल्याणपूर्व्वके ॥” इति कल्याणकगुडः ॥ * ॥ “पिप्पली पिप्पलीमूलं चव्यकं गजपिप्पली । धान्यकञ्च विडङ्गानि यवानी मरिचानि च ॥ त्रिफला चाजमोदा च नलिनी जीरकस्तथा । सैन्धवं रौमकं चापि सामुद्रं रुचकं विडम् ॥ आराग्वधश्च त्वक् पत्रं सूक्ष्मैला चोपकुञ्चिका । शुण्ठी शक्रयवाश्चैव प्रत्येकं कर्षसम्मिता ॥ मृद्वीकायाः पलान्यत्र चत्वारि कथितानि हि । त्रिवृतायाः पलान्यष्टौ गुडस्यार्द्धतुला तथा ॥ तिलतैलपलान्यष्टौ चामलक्या रसस्य तु । प्रस्थत्रयमिदं सर्व्वं शनैर्मृद्वग्निना पचेत् ॥ उडम्बरं चामलकं वादरं वा यथाफलम् । तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् ॥ निखिलान् ग्रहणीरोगान् प्रमेहांश्चैकविशतिम् । उरोघातं प्रतिश्यायं दौर्ब्बल्यं वह्निसंक्षयम् ॥ ज्वरानपि हरेत् सर्व्वान् कुर्य्यात् कान्तिं मतिं स्वरम् । पिचुपाठान्वयाद्धन्ति रक्तपित्तञ्च चिद्ग्रहम् ॥ धातुक्षीणो वयक्षीणः स्त्रीषु क्षीणः क्षयी च यः । तेभ्यो हितश्च बन्ध्यायै महाकल्याणको गुडः ॥” इति महाकल्याणकगुडः ॥ * ॥ ‘कुष्माण्डानां सुपक्वानां श्वित्रानां लिकुचत्वचाम् सर्पिःप्रस्थे पलशतं ताम्रपात्रे शनैः पचेत् ॥ पिप्पली पिप्पलीमूलं चित्रकं गजपिप्पली । धान्यकानि विडङ्गानि नागरं मरिचानि च ॥ त्रिफला चाजमोदा च कलिङ्गाजाजिसैन्धवम् । एकैकस्य पलं चैकं त्रिवृतोऽष्टपलानि च ॥ तैलस्य च पलान्यष्टौ गुडात् पञ्चाशदेव तु । आमलक्या रसस्यात्र प्रस्थत्रयमुदीरितम् ॥ तावत् पाकंप्रकुर्व्वीत मृदुना वह्निना भिषक् । यावत् दर्व्वीप्रलेपः स्यात् तदैनमवतारयेत् ॥ औडुम्बरं चामलकं वादरं वा यथाफलम् । तावन्मात्रमिदं खादेद्भक्षयेद्वा यथानलम् ॥ अनेनैव विधानेन प्रयुक्तश्च दिने दिने । निहन्ति ग्रहणीरोगान् कुष्ठान्यर्शोभगन्दरान् ॥ ज्वरमानाहहृदोगगुल्मोदरविसूचिकाः । कामलां पाण्डुरोगञ्च प्रमेहांश्चैकविंशतिम् ॥ वातशोणितवीसर्पदद्रुपक्षहलीमकान् । वातपित्तकफान् सर्व्वान् दुष्टान् शुद्धान् समाचरेत् व्याधिक्षीणा वयःक्षीणा स्त्रीषु क्षीणाश्च ये नराः । तेभ्यो हितो गुडोऽयंस्यात् बन्ध्यानामपि पुत्त्रदः । वृष्या बल्यो बृंहणश्च वयसः स्थापनः परः ॥” इति कुष्माण्डकल्याणगुडः ॥ * ॥ अतीसाराधिकारलिखितं विल्वं तैलञ्चात्र हितम् । इति ग्रहणीरोगाधिकारः । इति भावप्रकाशः ।
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्ग्रहणी¦ स्त्री सञ्चिता ग्रहणी। ग्रहणीरोगभेदे।
