सङ्ग्राहिन्
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्ग्राही, [न्] पुं, (संगृह्णाति मलमिति । सं + ग्रह + णिनिः ।) कुटजवृक्षः । इति राजनिर्घण्टः ॥ (मलसन्धारके, त्रि । यथा, सुश्रुते । १ । ४५ । “दीपनं लघु संग्राहि श्वासकाशास्रपित्तनुत् ॥” संग्राहके, त्रि । यथा, कामन्दकीये । ४ । १० । “प्रख्यातवंशमक्रूरं लोकसंग्राहिणं शुचिम् । कुर्व्वीतात्महिताकाङ्क्षी परिवारं महीपतिः ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्ग्राहिन्¦ पु॰ सम्यक् गृह्णाति मलम् सम् + ग्रह--णिवि।
१ कुटजवृक्षे राजनि॰।
२ मलावष्टम्भके
३ संग्रहकारकेच त्रि॰।