सामग्री पर जाएँ

सङ्घः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्घः, पुं, (सं + हन + “संघोद्घौ गणप्रशंसयोः ।” ३ । ३ । ८६ । इति अप् ढिलोपो घत्वञ्च निपा- त्यते ।) समूहः । इत्यमरः ॥ सजातीयानां विजातीयानाञ्च जन्तूनां वृन्दे सङ्घसार्थौ स्याताम् । यथा भिक्षुसङ्घः बणिक्सार्थः । संह- न्यते परिच्छिद्यतेऽनेनेति सङ्घः । संपूर्व्वात् हन- धातोर्नाम्नीति डः निपात्नात् हस्य घः । इति भरतः ॥ (यथा, महाभारते । १ । १२० । १ । “तत्रापि तपसि श्रेष्ठे वर्त्तमानः स वीर्य्यवान् । सिद्धचारणसङ्घानां बभूव प्रियदर्शनः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सङ्घः&oldid=173753" इत्यस्माद् प्रतिप्राप्तम्