सामग्री पर जाएँ

सङ्घट्टचक्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्घट्टचक्रम्, क्ली, (संघट्ट एव चक्रम् ।) युद्धविचा- रार्थनक्षत्राङ्कितचक्रविशेषः । यथा, -- “अश्विन्यादि लिखेच्चक्रं सप्तविंशतितारकैः । त्रिकोणं नवभिर्व्वेधः कर्त्तव्यस्तिर्य्यगाकृतिः ॥ अश्विनीरेवतीवेधो अश्विनीज्येष्ठयोस्तथा । मघापुष्णोः सर्पपित्रोरश्लेषामूलयोस्तथा ॥ ज्येष्ठामूलकयोर्व्वेधो भवेत् सङ्घट्टचक्रके । एवं सङ्घट्टचक्रे च कार्य्या ऋक्षगता ग्रहाः ॥ भूपनामर्क्षसङ्घट्टे युद्धं भवति नान्यथा । निर्व्वेधे सौम्यवेधे च युद्धं नास्तिंरणेशयोः ॥ क्रुरवेधे भवेद्युद्धं तत्काले घोरदारुणम् । युद्धाकाङ्क्षी भवेद्राजा यस्य भं क्रूरवेधितम् ॥ युद्धद्वेषी भवेत् सौम्यैर्भे च वेधविवर्ज्जिते । सौम्यक्रूरविभागेन मित्रामित्रक्रमेण च । वक्रातिचारगत्या च युद्धमत्रास्ति नास्ति च ॥” इति स्वरोदये सङ्घदृकालानलचक्रम् ॥

"https://sa.wiktionary.org/w/index.php?title=सङ्घट्टचक्रम्&oldid=173761" इत्यस्माद् प्रतिप्राप्तम्