सामग्री पर जाएँ

सङ्घट्टनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सङ्घट्टनम्, क्ली, स्त्री, (सं + घट्ट + ल्युट् । स्त्रियां युच् ।) मेलनम् । गठनम् । घटना । इति केचित् ॥ (यथा, साहित्यदर्पणे । ९ । ६२४ । “पदसंघट्टना रीतिरङ्गसंस्थाविशेषवत् । उपकर्त्त्री रसादीनां सा पुनः स्याच्चतुर्व्विधा ॥”)

"https://sa.wiktionary.org/w/index.php?title=सङ्घट्टनम्&oldid=173763" इत्यस्माद् प्रतिप्राप्तम्