सङ्घातः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सङ्घातः, पुं, (सं + हन + घञ् ।) समूहः । (यथा, कुमारे । ५ । ५५ । “न जातु बाला लभते स्म निर्वृतिं तुषारसङ्घातशिलातलेष्वपि ॥”) नरकभेदः । इत्यमरः ॥ हननम् । इति मेदिनी । (निविडसंयोगः । यथा, कुमारे । २ । ११ । “द्रवः सङ्घातकठिनः स्थूलः सूक्ष्मो लघुर्गुरुः । व्यक्तो व्यक्तेतरश्चासि प्राकाम्यं ते विभूतिषु ॥”) कफः । इति राजनिर्घण्टः ॥ नाटके गति- विशेषः । इति केचित् ॥
