सचीनन्दन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सचीनन्दनः, पुं, (सच्या नन्दनः ।) शचीसुतः । स च जयन्तः । चैतन्यदेवः । यथा, -- “शाके मुनिव्योमयुगेन्दुगण्ये पुण्ये तिथौ फाल्मुनपौर्णमास्याम् ॥ त्रैलोक्यभाग्योदयपुण्यकीर्त्ति- दवः सचीनन्दन आविरासीत् ॥” इति चैतन्यचन्द्रोदयनाटकम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सचीनन्दन¦ न॰
६ त॰। वैष्णवसम्प्रदायप्रवर्त्तके नवद्वीपावि-र्भूते वैष्णवाचार्य्यभेदे तदाविर्भावश्च
“शाके मुनिव्योम-युगेन्दुमाने(
१४
०७ ) पुण्ये तिथौ फाल्गुनपौर्णमास्याम्। त्रैलोक्यभाग्योदयपुण्यकीर्त्तिर्देवः सचीनन्दन आवि-रासीत्” चैतन्यचन्द्रोदयः। अस्य कलौ गुप्तभगवदवता-रत्वं वैष्णवामन्यन्ते तत्र न किञ्चित् प्रमाणमुपलभामहे
