सच्चिदानन्दः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सच्चिदानन्दः, पुं, (संश्चासौ चिच्चासौ आनन्द- श्चेति त्रिपदे कर्म्मधारयः ।) नित्यज्ञानसुख- स्वरूपं ब्रह्म । यथा, -- “अहं देवो न चान्योऽस्मि ब्रह्मैवास्मि न शोकभाक् । सच्चिदानन्दरूपोऽहं नित्यमुक्तस्वभाववान् ॥” इत्याह्निकतत्त्वम् ॥ साकारदेवविशेषणे, त्रि । यथा, -- “मुकुन्दं सच्चिदानन्दं प्रणिपत्य प्रणीयते ।” इत्यादि मुग्धबोधव्याकरणम् ॥
