सजू
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सजूः, [ष्] व्य, सहार्थः । इति शब्दरत्नावली भरतश्च ॥ (यथा, भागवते । ६ । १८ । ६७ । “सजूरिन्द्रेण पञ्चाशत् देवास्ते मरुतोऽभवन् ॥”)
सजूः, [ष्] जुष सेवे + क्विप् । जुषा सह वर्त्तते इति । सहस्य सः । “ससजुषो रुः ।” ८ । २ । ६६ । इति रुः । र्वोरिति दीर्घः ।) प्रीति- युक्ता । सेवायुक्ता । इति मुग्धबोधव्याकरणम् ॥ “जुषी प्रीतिसेवनयोः । जोषणं जुट् सह जुषा वर्त्तते या सा सजूः ।” इति तट्टीकायां दुर्गा- दासः ॥ तापसः । इति संक्षिप्तसारव्याकरणम् ॥
