सामग्री पर जाएँ

सज्जनः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सज्जनः, पुं, (सन् चासौ जनश्चेति ।) सत्कुलो- द्भवः । तत्पर्य्यायः । महाकुलः २ कुलीनः ३ आर्य्यः ४ सभ्यः ५ साधुः ६ । इत्यमरः ॥ कुलजः ७ सम्बः ८ साधुजः ९ । इति शब्द- रत्नावली ॥ मेदिनीकारभते वाच्यलिङ्गोऽयम् । तल्लक्षणं यथा, -- दान्त उवाच । “निजाचारग्राहिणो ये कुर्व्वन्तो वेदसम्मतम् । पापाभिलाषरहिताः सज्जनास्ते प्रकीर्त्तिताः ॥” इति पाद्मे क्रियायोगसारे १६ अध्यायः ॥ तत्सङ्गप्रशंसा यथा, -- “नलिनीदलगतजलवत्तरलं तद्वज्जीवनमतिशयचपलम् । क्षणमिह सज्जनसङ्गतिरेका भवति भवार्णवतरणे नौका ॥” इति श्रीशङ्कराचार्य्यकृतमोहमुद्गरः ॥

"https://sa.wiktionary.org/w/index.php?title=सज्जनः&oldid=173807" इत्यस्माद् प्रतिप्राप्तम्