सञ्चः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सञ्चः, पुं, (संचिनोति वर्णानिति । सं + चि + डः ।) पुस्तकलेस्वनार्थपत्रचयः । सा~च् इति भाषा । यथा, -- “श्रीताडीपत्रजे सञ्चे समे पत्रसुसञ्चिते । विचित्रकं विपार्श्वे च चर्म्मणा संपुटीकृते ॥ रक्तेन अथ कृष्णेन मूर्द्धन्यावर्द्धितेन च । दृढसूत्रसुबन्धेन एवंविधकृतेन च ॥ यस्तु द्वादशसाहस्रीं संहितामुपलेखयेत् । ददाति चाभियुक्ताय स याति परमां गतिम् ॥” इति देवीपुराणे विद्यादानमाहात्म्यफलनामा- ध्यायः ॥
