सञ्चरः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सञ्चरः, पुं, (सञ्चरन्तेऽनेनेति । सम् + चर + “गोचरसंचरेति ।” ३ । ३ । ११९ । इति घः ।) सेतुः । इति त्रिकाण्डशेषः ॥ सञ्चरो निर्गमो- ऽम्बुपथः । इति भरतधृतरत्नमाला ॥ (मार्गः । इति सिद्धान्तकौमुदी ॥ यथा, कुमारे । ६ । ४३ । “यथौषधिप्रकाशेन नक्तं दर्शितसञ्चराः । अनभिज्ञास्तमिस्राणां दुर्दिनेष्वभिसारिकाः ॥”) देहः । इति हेमचन्द्रः ॥
