सामग्री पर जाएँ

सञ्चारः

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सञ्चारः, पुं, (सं + चर + घञ् ।) दुर्गसञ्चरः । इत्यमरटीका ॥ गमनम् । यथा । सञ्चारो रति- मन्दिरावधि इत्यादि काव्यप्रकाशः ॥ (यथा, रघुः । २ । १५ । “सञ्चारपूतानि दिगन्तराणि कृत्वा दिनान्ते निलयाय गन्तुं । प्रचक्रमे पल्लवरागताम्रा प्रभा पतङ्गस्य मुनेश्च धेनुः ॥”) ग्रहादे राश्यन्तरसंक्रमनञ्च ॥ (यथा, याज्ञ- वल्क्ये । ३ । १७२ । “तारा नक्षत्रसञ्चारैर्ज्जागरैः स्वप्नजैरपि ॥” * ॥ सञ्चरत्यस्मिन्निति । अधिकरणे घञ् । देशः । इति रामायणटीका ॥ यथा, रामायणे । २ । ११९ । १८ । “तावूचुस्ते वनचरास्तापसा धर्म्मचारिणः । वनस्य तस्य संञ्चारं राक्षसैः समभिप्लुतम् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सञ्चारः&oldid=173830" इत्यस्माद् प्रतिप्राप्तम्