सञ्चारिन्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सञ्चारी, [न्] पुं, (सञ्चरतीति । सं + चर + णिनिः ।) धूपः । इति त्रिकाण्डशेषः ॥ वायुः ॥ इति शब्दचन्द्रिका ॥ भावविशेषः । यथा, -- “स्थायिसात्त्विकसञ्चारिमभेदैः स्याद्रतिः पुनः ।” इति हेमचन्द्रः ॥ अन्यच्च । “सञ्चारिणः प्रधानानि देवादिविषया रतिः । उद्बुद्धमात्रस्थायी च भाव इत्यभिधियते ॥” अपि च । “नानाभिनयसम्बन्धान् भावयन्ति रसान् यतः । तस्माद्भावा अमी प्रोक्ताः स्थायिसञ्चारि- सात्त्विकाः ॥” वात्मल्यरससञ्चारिणो यथा, -- “सञ्चारिणोऽनिष्टशङ्काहर्षगर्व्वादयो मताः ॥” वीररससञ्चारिणस्तु । “धृतिमतिगर्व्व स्मृतितर्क- रोमाञ्चाः ।” इति साहित्यदर्पणे ३ परिच्छेदः ॥ (गतिशीले, त्रि । यथा, गीतगोविन्दे । ६ । ११ । “अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ॥”)
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सञ्चारिन्¦ पु॰ सम् + चर--णिनि।
१ धूपे त्रिका॰
२ वायौशब्दच॰। अलङ्कारोक्ते शृङ्गारादिरसाद्यनुगुणे
३ भावभेदे च भावभेदश्च व्यभिचारिभावः।
“नानाभिनयसम्ब-न्धात् मावयन्ति रसान् यतः। तस्माद्भावा अमी प्रोक्तास्थायिसञ्चारिसात्त्विकाः”।
“व्यक्तः सञ्चारिणा तथेति” सा॰ द॰।
४ सञ्चारकारके त्रि॰ स्त्रियां ङीष्।
“सञ्चारिणीदीपशिखेवेति” रघुः। सा च
५ हंसपद्याञ्च राजनि॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सञ्चारिन्¦ mfn. (-री-रिणी-रि)
1. Fickle, changeable, not permanent.
2. Moving, going.
3. Difficult, inaccessible.
4. Moving, putting in motion.
5. Transmitted, hereditary, (as disease.)
6. Contagious. m. (-री)
1. Incense.
2. A division of the Bha4vas, the same as the व्यभिचारिन्, q. v. or the reverse of the स्थायिन् or fixed and steady sentiments.
3. An evanescent feeling which strengthens the per- vading sentiments.
4. Air, wind. E. सम् before चर् to go, णिनि aff.
