सामग्री पर जाएँ

सञ्चारी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सञ्चारी, [न्] पुं, (सञ्चरतीति । सं + चर + णिनिः ।) धूपः । इति त्रिकाण्डशेषः ॥ वायुः ॥ इति शब्दचन्द्रिका ॥ भावविशेषः । यथा, -- “स्थायिसात्त्विकसञ्चारिमभेदैः स्याद्रतिः पुनः ।” इति हेमचन्द्रः ॥ अन्यच्च । “सञ्चारिणः प्रधानानि देवादिविषया रतिः । उद्बुद्धमात्रस्थायी च भाव इत्यभिधियते ॥” अपि च । “नानाभिनयसम्बन्धान् भावयन्ति रसान् यतः । तस्माद्भावा अमी प्रोक्ताः स्थायिसञ्चारि- सात्त्विकाः ॥” वात्मल्यरससञ्चारिणो यथा, -- “सञ्चारिणोऽनिष्टशङ्काहर्षगर्व्वादयो मताः ॥” वीररससञ्चारिणस्तु । “धृतिमतिगर्व्व स्मृतितर्क- रोमाञ्चाः ।” इति साहित्यदर्पणे ३ परिच्छेदः ॥ (गतिशीले, त्रि । यथा, गीतगोविन्दे । ६ । ११ । “अङ्गेष्वाभरणं करोति बहुशः पत्रेऽपि सञ्चारिणि प्राप्तं त्वां परिशङ्कते वितनुते शय्यां चिरं ध्यायति ॥”)

"https://sa.wiktionary.org/w/index.php?title=सञ्चारी&oldid=173835" इत्यस्माद् प्रतिप्राप्तम्