सामग्री पर जाएँ

सञ्जवन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सञ्जवनम्, क्ली, (सञ्जवन्ति संमिलन्त्यत्रेति । सं + जु गतौ + अधिकरणे ल्युट् ।) अन्योन्याभिमुख- गृहचतुष्टयम् । तत्पर्य्यायः । चतुःशालम् २ । इत्यमरः ॥ सयमनम् ३ चतुःशाली ४ । इति भरतः ॥ सञ्जीवनम् ५ शाला ६ निलयः ७ चतुःशालकम् ८ । इति शब्दरत्नावली ॥ (यथा, हरिवंशे । १५५ । ५६ । “तस्मिन् सुविहिताः सर्व्वे रुक्मदण्डाः पताकिनः सदने वासुदेवस्य मार्गसञ्जवनध्वजाः ॥”)

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सञ्जवन नपुं।

अन्योन्याभिमुखशालाचतुष्कम्

समानार्थक:सञ्जवन,चतुःशाल

2।2।6।1।5

वासः कुटी द्वयोः शाला सभा सञ्जवनं त्विदम्. चतुःशालं मुनीनां तु पर्णशालोटजोऽस्त्रियाम्.।

पदार्थ-विभागः : समूहः, द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सञ्जवन¦ न॰ सम् + जु--युच्। परस्पराभिमुखतया स्थिते च-तुःशाले गृहे अमरः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सञ्जवन¦ n. (-नं) A group of four houses joined together in a qua- drangle. E. सम् together, जु to go, aff. युच्; also सञ्जीवन |

"https://sa.wiktionary.org/w/index.php?title=सञ्जवन&oldid=384047" इत्यस्माद् प्रतिप्राप्तम्