सामग्री पर जाएँ

सञ्जीवनम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सञ्जीवनम्, क्ली, (सञ्जीव्यतेऽस्मिन्निति । सं + जीव + अधिकरणे ल्युट् ।) सञ्जवनम् । इति शब्द- रत्नावली ॥ (सं + जीव + भावे ल्युट् ।) सस्यक्प्रकारेण प्राणधारणञ्च ॥ (यथा, मुकुन्द- मालायाम् । ३० । “व्यामोहोद्दलनौषधं मुनिमनोवृत्तिप्रवृत्त्यौषधं दैत्यानर्थकरौषधं त्रिजगतां सञ्जीवनैकौषधम् । भक्तार्त्तिप्रशमौषधं भवभयप्रध्वंसि दिव्यौषधं श्रेयः प्राप्तिकरौषधं पिब मनः श्रीकृष्णनामौ- षधम् ॥” नरकविशेषः । यथा, मनुः । ४ । ८९ । “नरकं कालसूत्रञ्च महानरकमेव च । सञ्जीवनं सहावीचिं तपनं सम्प्रतापनम् ॥” स्त्री, विद्याविशेषः । यथा महाभारते । १ । ७६ । ३३ । “ततः सञ्जीवनीं विद्यां प्रयुज्य कचमाह्वयत् ॥”)

"https://sa.wiktionary.org/w/index.php?title=सञ्जीवनम्&oldid=173847" इत्यस्माद् प्रतिप्राप्तम्