सटी
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सटी, स्त्री, (सटि + वा ङीष् ।) गन्धद्रव्यविशेषः ॥ वन आदा इति अम्लहरिद्रा इति च भाषा । आवेहलदी इति कोङ्कणे प्रसिद्धा । तत्पर्य्यायः । शिटी २ गन्धशटी ३ सुगन्धा ४ सटिः ५ शटिः ६ गन्धमूला ७ गन्धमूली ८ पलाशः ९ कर्व्वुरः १० षड्ग्रन्थिका ११ कर्व्वूरः १२ गन्धोलिः १३ गन्धमूलकः १४ । इति शब्दरत्ना- वली ॥ शठी १५ षड्ग्रन्था १६ अम्लनिशा १७ बधूः १८ गन्धारी १९ सटिका २० पला- शिका २१ समुद्रा २२ तृणी २३ दूर्व्वा २४ गन्धा २५ पृथुपलाशिका २६ सौम्या २७ हिमोद्भवा २८ गन्धबधूः २९ । अस्या गुणाः । सुतिक्तत्वम् । अम्लरसत्वम् । लघुत्वम् । उष्ण- त्वम् । रुचिप्रदत्वम् । ज्वरकफास्रकण्डूव्रणदोष- वक्त्रामयनाशित्वम् । हृद्यत्वञ्च । इति राज- निर्घण्टः ॥
