सण्डीन
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सण्डीनम्, क्ली, खगगतिक्रिया । इत्यमरः ॥ खगानां पक्षिणां गतौ स्थानान्तरसञ्चारे एताः क्रियाः व्यापाराः । कास्ता इत्याह प्रथमडीनं उड्डय- नाय क्रमबन्धः । ऊर्द्धं डीनं उड्डीनं वियद्गमनम् । संगतं डीनं सण्डीनं वृक्षादौ पतनमिति । पृथक् पृथक् पक्षिगतिक्रियासु प्रडीनं सङ्गत- गमनमित्यन्ये । ओ डो ङ य गतौ डीङ च नभोगतौ भावे क्तः सुल्वाद्योदिति नत्वम् । इति भरतः ॥
अमरकोशः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सण्डीन नपुं।
पक्षिगतिविशेषः
समानार्थक:प्रडीन,उड्डीन,सण्डीन
2।5।37।1।3
प्रडीनोड्डीनसंडीनान्येताः खगगतिक्रियाः। पेशी कोशो द्विहीनेऽण्डं कुलायो नीडमस्त्रियाम्.।
वैशिष्ट्य : पक्षी
पदार्थ-विभागः : , क्रिया
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सण्डीन¦ न॰ सम् + डी--क्त। पक्षिणां सङ्गत्य गमनरूपे गति॰भेदे अमरः।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सण्डीन¦ n. (-नं) One of the modes of flight attributed to birds, perching, alighting. E. सम् before डी to fly, aff. क्त, form irr.