सतीलकः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सतीलकः, पुं, (सतील एव । स्वार्थे कन् ।) कलायः । यथा, -- “कलायस्तु सतीलकः हरेणुखण्डिकौ चास्मिन्” इत्यमरः ॥ “चत्वारि कलाये । मटर इति ख्याते । कलाय- शब्दो विशेषे सामान्ये च अतएव माषकलाय इत्यादिप्रयोगः । कड्यते भुज्यते कलायः । कड भक्षणे नाम्नीति आयः मनीषादित्वात् डस्य लः । तिलेन तिलवत् कृष्णवर्णचिह्नेन सह वर्त्तते सतीलः निपातनादिकारस्य दीर्घः स्वार्थे के सतीलकः दन्त्यादिः । ह्रियते भक्षणार्थं हरति मनो वा हरेणुः नाम्नीति एणुः । खण्ड्यते विदार्य्यते खण्डिकः पूर्व्वेण इकः । “कलायस्त्रिपुटः प्रोक्तः सतीलो वर्त्तुलो मतः । हरेणुः कण्टका ज्ञेया -- इति तु व्याडिः ।” इति भरतः ॥
