सत्कारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्कारः, पुं, (सत्करणमिति । सत् + कृ + घञ् । पूजा । यथा । एवम्भूताः सभासदः सभायां यथा सीदन्ति उपविशन्ति तथा दानमानसत्- कारै राज्ञा कर्त्तव्या । इति व्यवहारतत्त्वम् ॥ (यथा, कुमारे । ६ । ५२ । “विधिप्रयुक्तसत्कारैः स्वय मार्गस्य दर्शकः । स तैराक्रमयामास शुद्धान्तं शुद्धकर्म्मभिः ॥” उत्सवविशेषः । यथा, मनुः । २ । ५९ । “तस्मादेताः सदा पूज्या भूषणाच्छादनाशणैः । भूतिकामैर्नरैर्नित्यं सत्कारेषूत्सयेषु च ॥” “सत्कारेषु कौमुद्यादिषु उत्सवेषु उपनयना- दिषु ।” इति तट्टीकायां कुल्लूकः ॥ * ॥) शवदाहादिक्रिया । इति लोकप्रसिद्धिः ॥
