सामग्री पर जाएँ

सत्त्रम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सत्त्रम्, क्ली, (सतः साधून् त्रायते इति । त्रै + कः । यद्वा, सीदन्ति सज्जना यत्र । सद गतौ + “गुधृवीपचिवचीति ।” उणा० ४ । १६६ । इति त्रः ।) यज्ञः । (यथा, भनुः । ८ । ३०३ । “अभयस्य हि यो दाता संपूज्यः सततं नृपः । सत्त्रं हि वर्द्धते तस्य सदैवाभयदक्षिणम् ॥”) सदादानम् । आच्छादनम् । अरण्यम् । (यथा, किराते । १३ । ९ । “अयमेव मृगव्यसत्त्रकामः प्रहरिष्यन् मयि मायया समस्थे । पृथुभिर्ध्वजिनीरवैरकार्षीत् चकितोद्भ्रान्तमृगाणि काननानि ॥”) कैतवम् इति मेदिनी ॥ (यथा, महाभारते । ४ । ३६ । ३८ । “सत्त्रेण नूनं छन्नं हि चरन्तं पार्थमर्ज्जुनम् । उत्तरः सारथिं कृत्वा निर्य्यातो नगरात् बहिः ॥”) धनम् । गृहम् । दानम् सरोवरम् । इत्यने- कार्थकोषः ॥ यागविशेषः । यथा, -- “नैमिषेऽनिमिषक्षेत्रे ऋषयः शौनकादयः । सत्त्रं स्वर्गाय लोकाय सहस्रसमभासत ॥ कलिमागतमाज्ञाय क्षेत्रेऽस्मिन् वैष्णवे वयम् । आसोना दीर्घसत्रेण कथायां सक्षणा हरेः ॥” इति श्रीभागवते १ स्कन्धे १ अध्यायः ॥ * ॥ द्वादशाहसाध्यसत्त्रं यथा । ज्योतिष्टोमे द्वादश- गोशतदक्षिणाविभागः षोडशर्त्विजां तद्विकृती- भूते सत्त्रात्मके द्वादशाहसाध्ये शतेनाद्धिनी दीक्षयन्तीत्यादिदर्शनेन निर्णीयते । तच्च सावन- मानेन कर्त्तव्यम् । यथा, -- “सत्त्राण्युपास्यान्यथ सावनेन लौक्यञ्च यत् स्याद्व्यवहारमर्म्म ।” इति मलमासतत्त्वम् ॥ * ॥ सदक्षिणं सततान्नदानम् । तन्निन्दकस्पशनादि- निषेधो यथा, -- “नालपेज्जनविद्विष्टान् वीरहीनां तथा स्त्रियम् । देवतापितृसच्छास्त्रयज्ञसत्त्रादिनिन्दकैः । कृत्या तु स्पर्शनालापं शुद्ध्येतार्कावलोकनात् ॥” इति मार्कण्डेयपुराणे सदाचाराध्यायः ॥ सत्त्रं सदक्षिणं सततान्नदानम् । इति तट्टीका ॥

सत्त्रम्, [म्] व्य, सह । इति शब्दरत्नावली जटा- धरश्च ॥

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सत्त्रम्¦ ज॰{??} सद--त्रसु।

१ सहार्थे जटा॰। त्रा। सत्त्राप्यत्रार्थे अमरे पाठान्तरम्। [Page5206-b+ 38]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सत्त्रम् [sattram], [सद्-ष्ट्रन्] (usually written सत्रम्)

A sacrificial session, especially one lasting from 13 to 1 days.

A sacrifice in general; त्रेतामपि निबोध त्वं यस्मिन् सत्रं प्रवर्तते Mb.3.149.23.

An oblation, offering, gift.

Liberality, munificence.

Virtue.

A house, residence.

Covering.

Wealth.

A wood, forest; अयमेव मृगव्यसत्रकामः Ki.13.9.

A tank, pond.

Fraud, cheating.

A place of refuge, asylum, covert.

Gifts made at all times; L. D. B.

Haughtiness, pride; L. D. B.

An assumed form or disguise; छन्नं तथा तं सत्रेण पाण्डवं प्रेक्ष्य भारत Mb.4.38.4.-Comp. -अपश्रयः a place of refuge, asylum. -अयनम् (णम्) a long sacrificial session. -परिवेषणम् distribution of food at a sacrifice. -शाला an alms-house.

"https://sa.wiktionary.org/w/index.php?title=सत्त्रम्&oldid=384996" इत्यस्माद् प्रतिप्राप्तम्