सामग्री पर जाएँ

सत्त्रिजातक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सत्त्रिजातकम्, क्ली, (सत् साधु त्रिजातकं तुल्यत्व- गेलापत्रादिकं यत्र ।) व्यञ्जनविशेषः । यथा, -- “मांसं बहुघृते भृष्टं सिक्त्वा चोष्णाम्बूना मुहुः । जीरकाद्यैः समायुक्तं परिशुस्कं तदुच्यते । तदेव घृततक्राढ्यं प्रदिग्धं सत्त्रिजातकम् ॥” इति शब्दचन्द्रिका ॥

"https://sa.wiktionary.org/w/index.php?title=सत्त्रिजातक&oldid=173938" इत्यस्माद् प्रतिप्राप्तम्