सामग्री पर जाएँ

सत्त्री

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सत्त्री, [न्] पुं, (सत्त्रमस्त्यस्येति । इनिः ।) गृहपतिः । इत्यमरः ॥ द्वे गृहस्थे । सत्त्रं सदा दानं विद्यतेऽस्य सत्त्री इन् । सदेस्त्रं सत्त्रं द्वितकारम् । सत्त्रमाच्छादने यज्ञे सदा दाने च कैतवे । इति विश्वः । गृहस्य पतिर्गृहपतिः । इति भरतः ॥ नित्यप्रवृत्तान्नदानः । यथा विष्णुः । नाशौचं राज्ञां राजकर्म्मणि न व्रतिनां व्रते न सत्त्रिणां सत्रेन कारुणां स्वकर्मणि न राजाज्ञा- कारिणां तदिच्छया न देवप्रतिष्ठाविवाहयोः पूर्व्वसंवृतयोः । इति । सत्त्रिणां नित्यप्रवृत्तान्न- दानानां सत्त्रेऽन्नदाने । इति शुद्धितत्त्वम् ॥ (यज्ञान्धिते, त्रि । यथा, महाभारते । १४ । ७ । ३ । “सन्यमेतद्भवानाह स मां जानाति सत्त्रिणम् । कथयस्व तदेतन्मे क्व नु सम्प्रति नारदः ॥”)

"https://sa.wiktionary.org/w/index.php?title=सत्त्री&oldid=173941" इत्यस्माद् प्रतिप्राप्तम्