सामग्री पर जाएँ

सत्त्वम्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सत्त्वम्, क्ली, (सतो भावः । सत् + त्व ।) प्रकृते- र्गुणविशेषः । अत्र सत्त्वं प्रकाशकज्ञानं सुख- हेतुः । सतो भावः सत्त्वम् । त्वतौ भावे इति त्वं निपातनात्तलोप इति केचित् । सत्त्वं हितकार मिति बहवः । इत्यमरभरतौ ॥ * ॥ (यथा, मनुः । १२ । २४ । “सत्त्वं रजस्तमश्चैव त्रीन् विद्यादात्मनो गुणान् । र्यैर्व्याप्येमान् स्थितो भावान् महान् सर्व्वान- शेषतः ॥”) महाभारतमते सुखजनकगुणः । तस्य धर्म्माः । प्रसादः १ हर्षः २ प्रीतिः ३ असन्देहः ४ धृतिः ५ स्मृतिः ६ । इति मोक्षधर्म्मः ॥ द्रव्यम् । असुः । (यथा, रामायणे । २ । ६० । १ । “ततो भूतोपसृष्टेव वेपमाना पुनः पुनः । धरण्यां गतसत्त्वेव कौशल्या सूतमब्रवीत् ॥)” व्यवसायः ! इत्यमरः ॥ पिशाचादिः । (यथा, रामायणे । २ । ३३ । १० । “अद्य नूनं दशरथः सत्त्वमाविश्य भाषते । न हि राजा प्रियं पुत्त्रं विवासयितुमर्हति ॥”) बलम् । (यथा, रघुः । ४ । ७२ । “शशंस तुल्यसत्त्वानां सैन्यघोषेऽप्यसम्भ्रमम् । गुहाशयानां सिंहानां परिवृत्त्यावलो- कितम् ॥”) स्वभावः । (यथा, किराते । १२ । ३९ । “सत्त्वविहितमतुलम्भुजयो- र्बलमस्य पश्यत मृधेऽधिकुप्यतः ॥”) आत्मा । चित्तम् । इति मेदिनी ॥ रसः । आयुः । इति धरणिः ॥ कुबेरः । इति हेमचन्द्रः ॥ धनम् । आत्मता । इति शब्दरत्नावली ॥

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।

सत्त्वम् [sattvam], [सतो भावः] (Said to be m. also in the first ten senses)

Being, existence, entity.

Nature, essence.

Natural character, inborn disposition; अच्योष्ट सत्त्वान्नृपतिश्च्युताशः Bk.3.2.

Life, spirit, breath, vitality, principle of vitality; उद्गतानीव सत्त्वानि बभूवुरमनस्विनाम् Rām.2.48.2; चित्रे निवेश्य परिकल्पित- सत्त्वयोगा Ś.2.1.

Consciousness, mind, sense; वाक्च सत्वं च गोविन्द बुद्धौ संवेशितानि ते Mb.12.46.4; Bg.16.1; Bhāg.7.15.41.

An embryo.

Substance, thing, wealth.

An elementary substance such as earth, air, fire &c.

(also m.) A living or sentient being, animal, beast; वन्यान् विनेष्यन्निव दुष्टसत्त्वान् R.2.8;15.15; किं नो$पत्यनिर्विशेषाणि सत्वानि विप्रकरोषि Ś7; Māl.9; यश्चासूनपि संत्यजेत् करुणया सत्त्वार्थमभ्युद्यतः Nāg.2.1.

An evil spirit, a demon, ghost; अद्य नूनं दशरथः सत्त्वमाविश्य भाषते Rām.2.33.1.

Goodness, virtue, excellence.

Truth, reality, certainty.

Strength, energy, courage, vigour, power, inherent power, the stuff of which a person is made; निजमेव सत्त्वमुपकारि साम् Ki.18. 14; Mb.12.313.17; क्रियासिद्धिः सत्त्वे भवति महतां नोपकरणे Subhāṣ.; R.5.31; Mu.3.22.

Wisdom, good sense.

The quality of goodness or purity regarded as the highest of the three Guṇas q. v.; (it is said to predominate most in gods and heavenly beings).

A natural property or quality, characteristic.

A noun, substantive.

Intellect (बुद्धि); अघ्राणमवितर्कं च सत्त्वं प्रविशते परम् Mb.12.24.18.

The subtle body of individual soul (लिङ्गशरीर); गृहाणीव हि मर्त्यानामाहुर्देहानि पण्डिताः । कालेन विनियुज्यन्ते सत्त्वमेकं तु शाश्वतम् ॥ Mb.11.3.8. -Comp. -अनुरूप a.

according to one's inborn disposition or inherent character; सर्वः कृच्छ्रगतो$पि वाञ्छति जनः सत्त्वानुरूपं फलम् Bh.2.3.

according to one's means or wealth; सत्त्वानुरूपाहरणीकृतश्रीः R.7.32. (Malli's interpretation does not appear to suit the context). -आत्मन् m. the individual soul (लिङ्गदेह); वशे तिष्ठति सत्त्वात्मा सततं योगयोगिनाम् Mb.12.253.6.

उत्साहः natural energy.

energy and courage.

उद्रेकः excess of the quality of goodness.

pre-eminence in strength or courage. -गुणः the quality of purity or goodness. -तनुः epithet of Viṣṇu; श्रेयांसि तत्र खलु सत्त्वतनोर्नृणां स्युः Bhāg.1.2.23. -धातुः the animal sphere. -धामन् epithet of Viṣṇu.

योगः dignity; Kau. A.1.9.

association with life; चित्रे निवेश्य परिकल्पितसत्त्वयोगा Ś.2.1. -लक्षणम् signs of pregnancy; तत्कथमिमामभिव्यक्तसत्त्वलक्षणां ... प्रतिपत्स्ये Ś.5. -लोकः a world of living beings. -विप्लवः loss of consciousness.

विहित caused by nature.

caused by goodness.

virtuous, upright. -संशुद्धिः f. purity or uprightness of nature; अभयं सत्त्वसंशुद्धिः Bg.16.1. -संपन्न a.

endowed with goodness, virtuous.

equable, evenminded.

संप्लवः loss of strength or vigour.

universal destruction.

सारः essence of strength.

a very powerful person. -स्थ a.

being in the nature of things.

inherent in animals.

animate.

characterized by goodness, good, excellent. -स्थः a Yogi; कर्मस्था विषयं ब्रूयुः सत्त्वस्था समदर्शिनः Mb.12.238.6.

"https://sa.wiktionary.org/w/index.php?title=सत्त्वम्&oldid=385168" इत्यस्माद् प्रतिप्राप्तम्