सत्पुत्त्र
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्पुत्त्रः, पुं, (सन् पुत्त्रः ।) उत्तमसन्तानः । वेदादिविहितपित्रादिकार्य्यकर्त्ता । यथा -- “पुन्नाम्नो नरकाद्यस्मात्त्रायते पितरं सुतः । मुखसन्दर्शनेनापि तदुत्पत्तौ यतेत सः ॥” इति बृहस्पत्युक्तनरकनिस्ताराय ऋणमस्मिन् समन्नयति अमृतत्वञ्च विन्दति । इति पिता पुत्त्रस्य जातस्य पश्येच्च जीवतो मुखम् । इति वशि- ष्ठोक्तर्णापनयनाय च यत् पश्येदिति नियम- विधानं तदकृतपुत्त्रकार्य्यपुत्त्रपरम् । सत्पुत्त्रस्तु मुखदर्शनं विनापि नरकनिस्तारकः । तथा च विष्णुपुराणम् । “सत्पुत्त्रेण तु जातेन वेणोऽपि त्रिदिवं ययौ । पुन्नाम्नो नरकात्त्रातः स तेन सुमहात्मना ॥” ब्रह्मपुराणेऽपि । “समुत्पन्नेन भो विप्राः सत्पुत्त्रेण महात्मना । त्रातः स पुरुषव्याघ्रः पुन्नाम्नो नरकात्तदा ॥” इति शुद्धितत्त्वम् ॥
वाचस्पत्यम्
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्पुत्त्र¦ पु॰ कर्म॰ वेदादिविहितकार्य्यकर्त्तरि पुत्त्रे
“पुन्नाम्नोनरकाद् यस्मात्त्रायते पितरं सुतः। मुखसन्दर्शनेनापितदुत्पत्तौ यतेत सः” वृहस्पत्युक्तनरकतारणाय
“ऋणमस्मिन् सन्नयति अमृतत्वञ्च विन्दति। पितापुत्रस्य जातस्य पश्येच्चेज्जीव{??} मुखम्” इति वसिष्ठोक्त-र्णापनयनाय च यत् पश्येदिति नियमविधानं तद-कृतपुत्रकार्य्यपुत्रपरम्। सत्पुत्रस्तु मुखदर्शनं विनापिनरकनिस्तारकः। तथा च विष्णुपु॰
“सत्पुत्रेण तु जा-तेन वेनोऽपि त्रिदिवं ययौ। पुन्नाम्नो नरकात्त्रातः सतेन सुमहात्मना”। ब्रह्मपुराणेऽपि
“समुत्पन्नेन भोविप्राः सत्पुत्रेण महात्मना। त्वातः स (वेनः) पुरुष-व्याघ्रः पुन्नाम्नो नरकात्तदा” शु॰ त॰।
शब्दसागरः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्पुत्त्र¦ m. (-त्त्रः)
1. The father of a son.
2. A virtuous son.
3. A son who performs all the prescribed rites in honour of his ancestors. E. सत् being or good, and पुत्त्र a son.
