सत्यङ्कारः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्यङ्कारः, पुं, (सत्यस्य कार इति । कृ + घञ् । “कारे सत्यागदस्य ।” ६ । ३ । ७० । इति मुम् ।) अवश्यं मयैतत् क्रेतव्यमिति सत्या- करणम् । तत्पर्य्यायः । सत्यापनम् २ सत्या- कृतिः ३ । इत्यमरः ॥ सत्यापना ४ । इति वोपालितः ॥ (यथा, राजतरङ्गिण्याम् । ६ । ७१ । “लेभिरे निधनन्तस्मात् सत्यङ्कारात् पदातयः ॥”
