सत्यधृतिः
दिखावट
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्यधृतिः, पुं, (सत्या धृतिः ।) ऋषिविशेषः । यथा, -- “सरद्धतस्तु दायादमहल्या संप्रसूयते । शतानन्दं ऋषिश्रेष्ठं तस्यापि सुमहातपाः । तस्य सत्यधृतिर्नाम मुनिर्वेदस्य पारगः ॥” इति मात्स्ये ४८ अध्यायः ॥ (सत्यशीले, त्रि । यथा, रामायणे । २ । ८२ । ६ । “रामस्तथा सत्यधृतिः सतां धर्म्ममनुस्मरन् । नाजहात् पितुरादेशं शशी ज्योस्नामि- वोदितः ॥”)
