सत्ययुगम्
यन्त्रोपारोपितकोशांशः
[सम्पाद्यताम्]कल्पद्रुमः
[सम्पाद्यताम्]|
पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्। |
सत्ययुगम्, क्ली, (सत्यं युगम् ।) चतुर्युगानां प्रथम- युगम् । यथा, -- “कृतं सत्ययुगं त्रेताग्नायी द्वापरयज्ञियौ । कलिर्झर्झरकः कर्म्मयुगं पापन्तु पातकम् ॥” इति त्रिकाण्डशेषः ॥ * ॥ तस्य कृतनामकारणं यथा, -- “तदुपाधिकृतः कालो ब्रह्मणो जन्ममृत्युकृत् । शतसंवत्सरे ब्रह्मा लयं प्राप्नोति हि त्वयि ॥ लयान्ते तन्नाभिमध्यादुत्थितः सृजति प्रभुः । ततः कृतयुगान्तेऽहं कालं सद्धर्म्मपालकम् ॥ कृतकृत्याः प्रजा यत्र तन्नाम्ना मां कृतं विदुः ॥” इति कल्किपुराणे १९ अध्यायः ॥ * ॥ तद्धर्म्मा यथा, -- “धर्म्मश्चतुष्पादमवत् कृते पूर्णे जगत्त्रयम् । देवा यथोक्तफलदाश्चरन्ति भुवि सर्व्वतः ॥ सर्व्वशस्या वसुमती हृष्टपुष्टजनावृता । शाठ्यचौर्य्यानृतैर्हीना आधिव्याधिविवर्ज्जिता ॥ विप्रा वेदविदह् सुमङ्गलयुता नार्य्यस्तु चर्य्याव्रतैः पूजाहोमपराः पतिव्रतधरा यागोद्यताः क्षक्षियाः । वैश्या वस्तुषु धर्म्मतो विनिमयैः श्रीविष्णुपूजा- पराः शूद्रास्तु द्विजसेवनाद्धरिकथालापाः सपर्य्या- पराः ॥” इति कल्किपुराणे २८ अध्यायः ॥ * ॥ तद्युगमानं यथा, “चत्वारि त्रीणि द्वे चैकं कृत्यादिषु यथाक्रमम् संख्यातानि सहस्राणि द्विगुणानि शतानि च ॥” इति श्रीभागवते १२ स्कन्धे ४ अध्याये २ श्लोक- टीकायां श्रीधरस्वामी ॥ तस्योत्पत्त्यादिर्यथा । वैशाखशुक्लपक्षे तृतीयायां रविवारे सत्य- युगोत्पत्तिः । तत्रावतारचतुष्टयं मत्स्यकूर्म्म- वराहनृसिंहाः । पूर्णं पुण्यम् । पापं नास्ति । कुरुक्षेत्रं तीर्थम् । ग्रहांशो ब्राह्मणः । मज्जा- गताः प्राणाः । इच्छामृत्युः । एकविंशति- हस्तपरिमितो मानवदेहः । लक्षवर्षं परमायुः । सुवर्णनिर्म्मितभोजनपात्रम् । सत्ययुगाब्दाः १७२८००० । सत्ययुगस्य राजा बलिः वेणः मान्धाता पुरोरवा धुन्धुमारिकः कार्त्तवीर्य्यः एते षट् चक्रवर्त्तिनः ॥ सत्ययुगस्य लक्षणम् । “सत्यधर्म्मरतो नित्यं तीर्थानाञ्च सदाश्रयम् । नन्दन्ति देवताः सर्व्वाः सत्ये सत्यपरा नराः ॥” तत्र तारकब्रह्मनाम यथा, -- “नारायणपरा वेदा नारायणपराः क्षराः । नारायणपरा मुक्तिर्नारायणपरा गतिः ॥” इति मुद्राङ्कितपञ्जिकातः संगृहीतम् ॥
